मूलमध्यमककारिकाः ।
अनिरोधमनुत्पादमनुच्छेदमशाश्वतं ।
अनेकार्थमनानार्थमनागममनिर्गमं ॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवं ।
देशयामास संबुद्धस्तं वन्दे वदतां वरं ॥
०१. प्रत्ययपरीक्षा नाम प्रथमं प्रकरणं
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन के चन ॥ १,०१
चत्वारः प्रत्यया हेतुरारम्बणम् अनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १,०२
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥ १,०३
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया ।
प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥ १,०४
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन् नोत्पद्यत इमे तावन् नाप्रत्ययाः कथम् ॥ १,०५
नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥ १,०६
न सन् नासन् न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ १,०७
अनारम्बण एवायं सन् धर्म उपदिश्यते ।
अथानारम्बणे धर्मे कुत आरम्बणं पुनः ॥ १,०८
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरम् अतो युक्तं निरुद्धे प्रत्ययश्च कः ॥ १,०९
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदम् अस्मिन् भवतीत्येतन् नैवोपपद्यते ॥ १,१०
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत् फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन् न प्रत्ययेषु यत् ॥ १,११
अथासदपि तत् तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
अप्रत्ययेभ्योऽपि कस्मान् नाभिप्रवर्तते फलम् ॥ १,१२
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ १,१३
तस्मान् न प्रत्ययमयं नाप्रत्ययमयं फलम् ।
संविद्यते फलाभावात् प्रत्ययाप्रत्ययाः कुतः ॥ १,१४
०२. गतागतपरीक्षा नाम द्वितीयं प्रकरणं
गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २,०१
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २,०२
गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमानं द्विगमनं यदा नैवोपपद्यते ॥ २,०३
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २,०४
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २,०५
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २,०६
गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते ।
गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २,०७
गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ गच्छति ॥ २,०८
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,०९
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ २,१०
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चाज्यते येन गन्ता सन् यच्च गच्छति ॥ २,११
गते नारभ्यते गन्तुं गन्तुं नारभ्यतेऽगते ।
नारभ्यते गम्यमाने गन्तुम् आरभ्यते कुह ॥ २,१२
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनम् अगते गमनं कुतः ॥ २,१३
गतं किं गम्यमानं किम् अगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ २,१४
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥ २,१५
गन्ता तावत् तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,१६
न तिष्ठति गम्यमानान् न गतान् नागतादपि ।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ २,१७
यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ २,१८
यदेव गमनं गन्ता स एव हि भवेद् यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एवच ॥ २,१९
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्याद् ऋते गन्तुर्गन्ता स्याद्गमनाद् ऋते ॥ २,२०
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते ॥ २,२१
गत्या ययाज्यते गन्ता गतिं तां स न गच्छति ।
यस्मान् न गतिपूर्वोऽस्ति कश्चिद् किंचिद् धि गच्छति ॥ २,२२
गत्या ययाज्यते गन्ता ततोऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके तु गन्तरि ॥ २,२३
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २,२४
गमनं सदसद्भूतः त्रिप्रकारं न गच्छति ।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २,२५
०३. चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणं
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ ३,०१
स्वम् आत्मानं दर्शनं हि तत् तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत् परान् ॥ ३,०२
न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३,०३
नापश्यमानं भवति यदा किं चन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत् तु युज्यते ॥ ३,०४
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्यवगम्यताम् ॥ ३,०५
द्रष्टा नास्त्यतिरस्कृत्य तिरस्कृत्य च दर्शनम् ।
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥ ३,०६
द्रष्टव्यदर्शनाभावाद् विज्ञानादिचतुष्टयम् ।
नास्तीत्युपादानादीनि भविष्यन्ति पुनः कथम् ॥ ३,०७
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ ३,०८
०४. स्कन्धपरीक्षा नाम चतुर्थं प्रकरणं
रूपकारणनिर्मुक्तं न रूपम् उपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ ४,०१
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥ ४,०२
रूपेण तु विनिर्मुक्तं यदि स्याद् रूपकारणम् ।
अकार्यकं कारणं स्याद् नास्त्यकार्यं च कारणम् ॥ ४,०३
रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते ॥ ४,०४
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
तस्माद् रूपगतान् कांश्चिन् न विकल्पान् विकल्पयेत् ॥ ४,०५
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते ॥ ४,०६
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥ ४,०७
विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ ४,०८
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ४,०९
०५. धातुपरीक्षा नाम पञ्चमं प्रकरणं
नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात् ॥ ५,०१
अलक्षणो न कश्चिच्च भावः संविद्यते क्वचित् ।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ ५,०२
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ ५,०३
लक्षणासंप्रवृत्तौ च न लक्ष्यम् उपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ ५,०४
तस्मान् न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥ ५,०५
अविद्यमाने भावे च कस्याभावो भविष्यति ।
भावाभावविधर्मा च भावाभावाववैति कः ॥ ५,०६
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशम् आकाशसमा धातवः पञ्च येऽपरे ॥ ५,०७
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ५,०८
०६. रागरक्तपरीक्षा नाम षष्ठं प्रकरणं
रागाद् यदि भवेत् पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद् रागो रक्ते रागो भवेत् सति ॥ ६,०१
रक्तेऽसति पुना रागः कुत एव भविष्यति ।
सति वासति वा रागे रक्तेऽप्येष समः क्रमः ॥ ६,०२
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ ६,०३
नैकत्वे सहभावोऽस्ति न तेनैव हि तत् सह ।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ ६,०४
एकत्वे सहभावश्चेत् स्यात् सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत् स्यात् सहायं विनापि सः ॥ ६,०५
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥ ६,०६
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
सहभावं किमर्थम् तु परिकल्पयसे तयोः ॥ ६,०७
पृथग न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥ ६,०८
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ ६,०९
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत् सर्वधर्माणां सिद्धिर्न सह नासह ॥ ६,१०
०७. संस्कृतपरीक्षा नाम सप्तमं प्रकरणं
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ ७,०१
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ ७,०२
उत्पादस्थितिभङ्गानाम् अन्यत् संस्कृतलक्षणम् ।
अस्ति चेदनवस्थैवं नास्ति चेत् ते न संस्कृताः ॥ ७,०३
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादम् उत्पादो मौलो जनयते पुनः ॥ ७,०४
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ ७,०५
स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तम् उत्पादयते कथम् ॥ ७,०६
अयम् उत्पाद्यमानस्ते कामम् उत्पादयेदिमम् ।
यदीमम् उत्पादयितुम् अजातः शक्नुयादयम् ॥ ७,०७
प्रदीपः स्वपरात्मानौ संप्रकाशयते यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत् तथा ॥ ७,०८
प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयते दीपः प्रकाशो हि तमोवधः ॥ ७,०९
कथम् उत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ ७,१०
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ ७,११
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ ७,१२
अनुत्पन्नोऽयम् उत्पादः स्वात्मानं जनयेत् कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ ७,१३
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथं चन ।
उत्पद्यते तदाख्यातं गम्यमानगतागतैः ॥ ७,१४
उत्पद्यमानम् उत्पत्ताविदं न क्रमते यदा ।
कथम् उत्पद्यमानं तु प्रतीत्योत्पत्तिम् उच्यते ॥ ७,१५
प्रतीत्य यद् यद् भवति तत् तच्छान्तं स्वभावतः ।
तस्मादुत्पद्यमानं च शान्तम् उत्पत्तिरेवच ॥ ७,१६
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति ॥ ७,१७
उत्पद्यमानम् उत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत् तम् उत्पादम् उत्पादः कतमः पुनः ॥ ७,१८
अन्य उत्पादयत्येनं यद्युत्पादोऽनवस्थितिः ।
अथानुत्पाद उत्पन्नः सर्वम् उत्पद्यतां तथा ॥ ७,१९
सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥ ७,२०
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७,२१
नास्थितस्तिष्ठते भावः स्थितो भावो न तिष्ठति ।
न तिष्ठते तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥ ७,२२
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७,२३
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ ७,२४
स्थित्यान्यया स्थितेः स्थानं तयैवच न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७,२५
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथा निरुध्यमानं च किम् अजातं निरुध्यते ॥ ७,२६
स्थितस्य तावद् भावस्य निरोधो नोपपद्यते ।
नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ ७,२७
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ ७,२८
यदैव सर्वधर्माणाम् उत्पादो नोपपद्यते ।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ ७,२९
सतश्च तावद् भावस्य निरोधो नोपपद्यते ।
एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ७,३०
असतोऽपि न भावस्य निरोध उपपद्यते ।
न द्वितीयस्य शिरसश छेदनं विद्यते यथा ॥ ७,३१
न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७,३२
उत्पादस्थितिभङ्गानाम् असिद्धेर्नास्ति संस्कृतम् ।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ ७,३३
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥ ७,३४
०८. कर्मकारकपरीक्षा नामाष्टमं प्रकरणं
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ ८,०१
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ ८,०२
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत् कर्म कर्ता चाहेतुको भवेत् ॥ ८,०३
हेतावसति कार्यं च कारणं च न विद्यते ।
तदभावे क्रिया कर्ता कारणं च न विद्यते ॥ ८,०४
धर्माधर्मौ न विद्येते क्रियादीनाम् असंभवे ।
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ८,०५
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ८,०६
कारकः सदसद्भूतः सदसत् कुरुते न तत् ।
परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥ ८,०७
सता च क्रियते नासन् नासता क्रियते च सत् ।
कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८,०८
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८,०९
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८,१०
करोति सदसद्भूतो न सन् नासच्च कारकः ।
कर्म तत् तु विजानीयात् पूर्वोक्तैरेव हेतुभिः ॥ ८,११
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते नान्यत् पश्यामः सिद्धिकारणम् ॥ ८,१२
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ ८,१३
०९. पूर्वपरीक्षा नाम नवमं प्रकरणं
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्राग एभ्यः सोऽस्तीत्येके वदन्त्युत ॥ ९,०१
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात् प्राग एभ्यः सोऽस्ति भावो व्यवस्थितः ॥ ९,०२
दर्शनश्रवणादिभ्यो वेदनादिभ्य एवच ।
यः प्राग व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः ॥ ९,०३
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ ९,०४
अज्यते केनचित् कश्चित् किंचित् केन चिदज्यते ।
कुतः किंचिद् विना कश्चित् किंचित् किंचिद् विना कुतः ॥ ९,०५
सर्वेभ्यो दर्शनादिभ्यः कश्चित् पूर्वो न विद्यते ।
अज्यते दर्शनादिनाम् अन्येन पुनरन्यदा ॥ ९,०६
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
एकैकस्मात् कथं पूर्वो दर्शनादेः स विद्यते ॥ ९,०७
द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
एकैकस्माद् भवेत् पूर्वमेवं चैतन् न युज्यते ॥ ९,०८
द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि ।
सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥ ९,०९
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्व एष भूतेष्व अपि न विद्यते ॥ ९,१०
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद् यस्य स न विद्यन्त इमान्यपि ॥ ९,११
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेवच ।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ ९,१२
१०. अग्नीन्धनपरीक्षा नाम दशमं प्रकरणं
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्य ऋते भवेत् ॥ १०,०१
नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ १०,०२
परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥ १०,०३
तत्रैतत् स्यादिध्यमानमिन्धनं भवतीति चेत् ।
केनेध्यतामिन्धनं तत् तावन्मात्रमिदं यदा ॥ १०,०४
अन्यो न प्राप्स्यतेऽप्रप्तो न धक्ष्यत्यदहन् पुनः ।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥ १०,०५
अन्य एवन्धनादग्निरिन्धनं प्राप्नुयाद् यदि ।
स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥ १०,०६
अन्य एवेन्धनादग्निरिन्धनं कामम् आप्नुयात् ।
अग्नीन्धने यदि स्याताम् अन्योन्येन तिरस्कृते ॥ १०,०७
यदीन्धनम् अपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् ।
कतरत् पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥ १०,०८
यदीन्धनम् अपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् ।
एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥ १०,०९
योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति ।
यदि योऽपेक्षितव्यः स सिध्यतां कम् अपेक्ष्य कः ॥ १०,१०
योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम् ।
अथाप्यपेक्षते सिद्धस्त्व अपेक्षास्य न युज्यते ॥ १०,११
अपेक्ष्येन्धनम् अग्निर्न नानपेक्ष्याग्निरिन्धनम् ।
अपेक्ष्येन्धनम् अग्निं न नानपेक्ष्याग्निमिन्धनम् ॥ १०,१२
आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते ।
अत्रेन्धने शेषम् उक्तं गम्यमानगतागतैः ॥ १०,१३
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान् नाग्नाविन्धनानि न तेषु सः ॥ १०,१४
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ।
सर्वो निरवशेषेण सार्धं घटपटादिभिः ॥ १०,१५
आत्मनश्च सतत्त्वं ये भावानां च पृथक् पृथक् ।
निर्दिशन्ति न तान् मन्ये शासनस्यार्थकोविदान् ॥ १०,१६
११. पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणं
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ ११,०१
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
तस्मान् नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ ११,०२
पूर्वं जातिर्यदि भवेज्जरामरणम् उत्तरम् ।
निर्जरा मरणा जातिर्भवेज्जायेत चामृतः ॥ ११,०३
पश्चाज्जातिर्यदि भवेज्जरामरणम् आदितः ।
अहेतुकम् अजातस्य स्याज्जरामरणं कथम् ॥ ११,०४
न जरामरणं चैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ ११,०५
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ ११,०६
कार्यं च कारणं चैव लक्ष्यं लक्षणमेवच ।
वेदना वेदकश्चैव सन्त्यर्था ये च के चन ॥ ११,०७
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषाम् अपि भावानां पूर्वा कोटी न विद्यते ॥ ११,०८
१२. दुःखपरीक्षा नाम द्वादशमं प्रकरणं
स्वयं कृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ १२,०१
स्वयं कृतं यदि भवेत् प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ १२,०२
यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत् परकृतं दुःखं परैरेभिरमी कृताः ॥ १२,०३
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ १२,०४
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद् दुःखं स दुःखेन विना कुतः ॥ १२,०५
परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ १२,०६
स्वयं कृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः ।
परो हि दुःखं यत् कुर्यात् तत् तस्य स्यात् स्वयं कृतम् ॥ १२,०७
न तावत् स्वकृतं दुःखं न हि तेनैव तत् कृतम् ।
परो नात्मकृतश्चेत् स्याद् दुःखं परकृतं कथम् ॥ १२,०८
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
पराकारास्वयंकारं दुःखम् अहेतुकं कुतः ॥ १२,०९
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
बाह्यानाम् अपि भावानां चातुर्विध्यं न विद्यते ॥ १२,१०
१३. संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणं
तन् मृषा मोषधर्म यद् भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १३,०१
तन् मृषा मोषधर्म यद् यदि किं तत्र मुष्यते ।
एतत् तूक्तं भगवता शून्यतापरिदीपकम् ॥ १३,०२
भावानां निःस्वभावत्वम् अन्यथाभावदर्शनात् ।
नास्वभावश्च भावोऽस्ति भावानां शून्यता यतः ॥ १३,०३
कस्य स्यादन्यथाभावः स्वभावश्चेन् न विद्यते ।
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ १३,०४
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद् यस्माज्जीर्णो न जीर्यते ॥ १३,०५
तस्य चेदन्यथाभावः क्षीरमेव भवेद् दधि ।
क्षीरादन्यस्य कस्यचिद् दधिभावो भविष्यति ॥ १३,०६
यद्यशून्यं भवेत् किंचित् स्याच्छून्यमिति किं चन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ १३,०७
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ॥ १३,०८
१४. संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणं
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गम् अन्योन्येन व्रजन्त्युत ॥ १४,०१
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥ १४,०२
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते ।
द्रष्टव्यप्रभृतीनां यन् न संसर्गं व्रजन्त्यतः ॥ १४,०३
न च केवलम् अन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित् केनचित् सार्धं नान्यत्वम् उपपद्यते ॥ १४,०४
अन्यदन्यत् प्रतीत्यान्यन् नान्यदन्यद् ऋतेऽन्यतः ।
यत् प्रतीत्य च यत् तस्मात् तदन्यन् नोपपद्यते ॥ १४,०५
यद्यन्यदन्यदन्यस्मादन्यस्मादप्य ऋते भवेत् ।
तदन्यदन्यदन्यस्माद् ऋते नास्ति च नास्त्यतः ॥ १४,०६
नान्यस्मिन् विद्यतेऽन्यत्वम् अनन्यस्मिन् न विद्यते ।
अविद्यमाने चान्यत्वे नास्त्यन्यद् वा तदेव वा ॥ १४,०७
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ १४,०८
१५. स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणं
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १५,०१
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ १५,०२
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥ १५,०३
स्वभावपरभावाभ्याम् ऋते भावः कुतः पुनः ।
स्वभावे परभावे च सति भावो हि सिध्यति ॥ १५,०४
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावम् अभावं ब्रुवते जनाः ॥ १५,०५
स्वभावं परभावं च भावं चाभावमेवच ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ १५,०६
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥ १५,०७
यद्यस्तित्वं प्रकृत्या स्यान् न भवेदस्य नास्तिता ।
प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥ १५,०८
प्रकृतौ कस्य वासत्याम् अन्यथात्वं भविष्यति ।
प्रकृतौ कस्य वा सत्याम् अन्यथात्वं भविष्यति ॥ १५,०९
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥ १५,१०
अस्ति यद् धि स्वभावेन न तन् नास्तीति शाश्वतम् ।
नास्तीदानीम् अभूत् पूर्वमित्युच्छेदः प्रसज्यते ॥ १५,११
१६. बन्धनमोक्षपरीक्षा नाम षोडशमं प्रकरणं
संस्काराः संसरन्ति चेन् न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः ॥ १६,०१
पुद्गलः संसरति चेत् स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति ॥ १६,०२
उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥ १६,०३
संस्काराणां न निर्वाणं कथं चिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथं चिदुपपद्यते ॥ १६,०४
न बध्यन्ते न मुच्यन्त उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत् सत्त्वो बध्यते न न मुच्यते ॥ १६,०५
बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थोऽथ बध्यते ॥ १६,०६
बध्नीयाद् बन्धनं कामं बन्ध्यात् पूर्वं भवेद् यदि ।
न चास्ति तच्छेषम् उक्तं गम्यमानगतागतैः ॥ १६,०७
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद् बन्धमोक्षणे ॥ १६,०८
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषाम् उपादानमहाग्रहः ॥ १६,०९
न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥ १६,१०
१७. कर्मफलपरीक्षा नाम सप्तदशमं प्रकरणं
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद् बीजं फलस्य प्रेत्य चेह च ॥ १७,०१
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ १७,०२
तत्र यच्चेतनेत्युक्तं कर्म तन् मानसं स्मृतम् ।
चेतयित्वा च यत् तूक्तं तत् तु कायिकवाचिकम् ॥ १७,०३
वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥ १७,०४
परिभोगान्वयं पुण्यम् अपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ १७,०५
तिष्ठत्या पाककालाच्चेत् कर्म तन् नित्यतामियात् ।
निरुद्धं चेन् निरुद्धं सत् किं फलं जनयिष्यति ॥ १७,०६
योऽङ्कुरप्रभृतिर्बीजात् संतानोऽभिप्रवर्तते ।
ततः फलम् ऋते बीजात् स च नाभिप्रवर्तते ॥ १७,०७
बीजाच्च यस्मात् संतानः संतानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् ॥ १७,०८
यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते ।
ततः फलम् ऋते चित्तात् स च नाभिप्रवर्तते ॥ १७,०९
चित्ताच्च यस्मात् संतानः संतानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् ॥ १७,१०
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ १७,११
बहवश्च महान्तश्च दोषाः स्युर्यदि कल्पना ।
स्यादेषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १७,१२
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ १७,१३
पत्त्रं यथाऽविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ १७,१४
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥ १७,१५
प्रहाणतः प्रहेयः स्यात् कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥ १७,१६
सर्वेषां विसभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः ॥ १७,१७
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्वेऽपि च तिष्ठति ॥ १७,१८
फलव्यतिक्रमाद् वा स मरणाद् वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥ १७,१९
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥ १७,२०
कर्म नोत्पद्यते कस्मान् निःस्वभावं यतस्ततः ।
यस्माच्च तदनुत्पन्नं न तस्माद् विप्रणश्यति ॥ १७,२१
कर्म स्वभावतश्चेत् स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत् कर्म क्रियते न हि शाश्वतम् ॥ १७,२२
अकृताभ्यागमभयं स्यात् कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ १७,२३
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥ १७,२४
तद् विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात् तस्मात् स्वाभाविकं यदि ॥ १७,२५
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत् ते तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथम् ॥ १७,२६
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ १७,२७
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ १७,२८
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात् कर्तापि नास्त्यतः ॥ १७,२९
कर्म चेन् नास्ति कर्ता च कुतः स्यात् कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥ १७,३०
यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥ १७,३१
तथा निर्मितकाकारः कर्ता यत् कर्म तत् कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥ १७,३२
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ १७,३३
१८. आत्मपरीक्षा नामाष्टदशमं प्रकरणं
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग भवेत् ।
स्कन्धेभ्योऽन्यो यदि भवेद् भवेदस्कन्धलक्षणः ॥ १८,०१
आत्मन्यसति चात्मीयं कुत एव भविष्यति ।
निर्ममो निरहंकारः शमादात्मात्मनीनयोः ॥ १८,०२
निर्ममो निरहंकारो यश्च सोऽपि न विद्यते ।
निर्ममं निरहंकारं यः पश्यति न पश्यति ॥ १८,०३
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेवच ।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः ॥ १८,०४
कर्मक्लेशक्षयान् मोक्षः कर्मक्लेशा विकल्पतः ।
ते प्रपञ्चात् प्रपञ्चस्तु शून्यतायां निरुध्यते ॥ १८,०५
आत्मेत्यपि प्रज्ञपितम् अनात्मेत्यपि देशितम् ।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ १८,०६
निवृत्तम् अभिधातव्यं निवृत्तश्चित्तगोचरः ।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ १८,०७
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेवच ।
नैवातथ्यं नैव तथ्यमेतद् बुद्धानुशासनम् ॥ १८,०८
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ।
निर्विकल्पम् अनानार्थमेतत् तत्त्वस्य लक्षणम् ॥ १८,०९
प्रतीत्य यद् यद् भवति न हि तावत् तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १८,१०
अनेकार्थम् अनानार्थम् अनुच्छेदम् अशाश्वतम् ।
एतत् तल्लोकनाथानां बुद्धानां शासनामृतम् ॥ १८,११
संबुद्धानाम् अनुत्पादे श्रावकाणां पुनः क्षये ।
ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते ॥ १८,१२
१९. कालपरीक्षा नामैकोनविंशतितमं प्रकरणं
प्रत्युत्पन्नोऽनागतश्च यद्यतीतम् अपेक्ष्य हि ।
प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः ॥ १९,०१
प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नोऽनागतश्च स्यातां कथम् अपेक्ष्य तम् ॥ १९,०२
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नोऽनागतश्च तस्मात् कालो न विद्यते ॥ १९,०३
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीन् एकत्वादींश्च लक्षयेत् ॥ १९,०४
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥ १९,०५
भावं प्रतीत्य कालश्चेत् कालो भावाद् ऋते कुतः ।
न च कश्चन भावोऽस्ति कुतः कालो भविष्यति ॥ १९,०६
२०. सामग्रीपरीक्षा नाम विंशतितमं प्रकरणं
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०,०१
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०,०२
हेतोश्च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ २०,०३
हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् ।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः ॥ २०,०४
हेतुं फलस्य दत्त्वा च यदि हेतुर्निरुध्यते ।
यद् दत्तं यन् निरुधं च हेतोरात्मद्वयं भवेत् ॥ २०,०५
हेतुं फलस्यादत्त्वा च यदि हेतुर्निरुध्यते ।
हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत् ॥ २०,०६
फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः ।
एककालौ प्रसज्येते जनको यश्च जन्यते ॥ २०,०७
पूर्वमेवच सामग्र्याः फलं प्रादुर्भवेद् यदि ।
हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत् ॥ २०,०८
निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् ।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥ २०,०९
जनयेत् फलम् उत्पन्नं निरुद्धोऽस्तंगतः कथम् ।
हेतुस्तिष्ठन्नपि कथं फलेन जनयेद् वृतः ॥ २०,१०
अथावृतः फलेनासौ कतमज्जनयेत् फलम् ।
न ह्यदृष्ट्वा न दृष्ट्वापि हेतुर्जनयते फलम् ॥ २०,११
नातीतस्य ह्यतीतेन फलस्य सह हेतुना ।
नाजातेन न जातेन संगतिर्जातु विद्यते ॥ २०,१२
न जातस्य ह्यजातेन फलस्य सह हेतुना ।
नातीतेन न जातेन संगतिर्जातु विद्यते ॥ २०,१३
नाजातस्य हि जातेन फलस्य सह हेतुना ।
नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ २०,१४
असत्यां संगतौ हेतुः कथं जनयते फलम् ।
सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ २०,१५
हेतुः फलेन शून्यश्चेत् कथं जनयते फलम् ।
हेतुः फलेनाशून्यश्चेत् कथं जनयते फलम् ॥ २०,१६
फलं नोत्पत्स्यतेऽशून्यम् अशून्यं न निरोत्स्यते ।
अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति ॥ २०,१७
कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते ।
शून्यम् अप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥ २०,१८
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते ।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ २०,१९
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः ।
पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुरहेतुना ॥ २०,२०
फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति ।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति ॥ २०,२१
न चाजनयमानस्य हेतुत्वम् उपपद्यते ।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ २०,२२
न च प्रत्ययहेतूनामियम् आत्मानम् आत्मना ।
या सामग्री जनयते सा कथं जनयेत् फलम् ॥ २०,२३
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् ।
अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २०,२४
२१. संभवविभवपरीक्षा नामैकविंशतितमं प्रकरणं
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै ॥ २१,०१
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥ २१,०२
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्म मरणं चैवं तुल्यकालं हि विद्यते ॥ २१,०३
भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन् न विद्यते ॥ २१,०४
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्म मरणं चैव तुल्यकालं हि विद्यते ॥ २१,०५
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते ॥ २१,०६
क्षयस्य संभवो नास्ति नाक्षयस्यास्ति संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ २१,०७
संभवो विभवश्चैव विना भावं न विद्यते ।
संभवं विभवं चैव विना भावो न विद्यते ॥ २१,०८
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ २१,०९
संभवो विभवश्चैव नैक इत्युपपद्यते ।
संभवो विभवश्चैव न नानेत्युपपद्यते ॥ २१,१०
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
दृश्यते संभवश्चैव मोहाद् विभव एवच ॥ २१,११
न भावाज्जायते भावो भावोऽभावान् न जायते ।
नाभावाज्जायतेऽभावोऽभावो भावान् न जायते ॥ २१,१२
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते जायते कुतः ॥ २१,१३
भावम् अभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत् ॥ २१,१४
भावम् अभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ॥ २१,१५
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥ २१,१६
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
निर्वाणकाले चोच्छेदः प्रशमाद् भवसंततेः ॥ २१,१७
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ २१,१८
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत् ॥ २१,१९
न चेन् निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ २१,२०
एवं त्रिष्व अपि कालेषु न युक्ता भवसंततिः ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ २१,२१
२२. तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणं
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान् न कतमोऽत्र तथागतः ॥ २२,०१
बुद्धः स्कन्धान् उपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ २२,०२
प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥ २२,०३
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।
स्वभावपरभावाभ्याम् ऋते कः स तथागतः ॥ २२,०४
स्कन्धान् यद्यनुपादाय भवेत् कश्चित् तथागतः ।
स इदानीम् उपादद्यादुपादाय ततो भवेत् ॥ २२,०५
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित् तथागतः ।
यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ २२,०६
न भवत्यनुपादत्तम् उपादानं च किं चन ।
न चास्ति निरुपादानः कथं चन तथागतः ॥ २२,०७
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्यते तथागतः ॥ २२,०८
यदपीदम् उपादानं तत् स्वभावान् न विद्यते ।
स्वभावतश्च यन् नास्ति कुतस्तत् परभावतः ॥ २२,०९
एवं शून्यम् उपादानम् उपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ २२,१०
शून्यमिति न वक्तव्यम् अशून्यमिति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ २२,११
शाश्वताशाश्वताद्यत्र कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुतः शान्ते चतुष्टयम् ॥ २२,१२
घनग्राहो गृहीतस्तु येनास्तीति तथागतः ।
नास्तीति स विकल्पयन् निर्वृतस्यापि कल्पयेत् ॥ २२,१३
स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद् भवति बुद्धो न भवतीति वा ॥ २२,१४
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतम् अव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ २२,१५
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ २२,१६
२३. विपर्यासपरीक्षा नाम त्रयोविंशतितमं प्रकरणं
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ २३,०१
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान् न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः ॥ २३,०२
आत्मनोऽस्तित्वनास्तित्वे न कथं चिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ २३,०३
कस्य चिद् धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कंचित् सन्ति क्लेशा न कस्यचित् ॥ २३,०४
स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्व अपि न पञ्चधा ॥ २३,०५
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥ २३,०६
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य दोषस्य मोहस्य च विकल्प्यते ॥ २३,०७
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ २३,०८
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ २३,०९
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत् प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ २३,१०
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत् प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ २३,११
अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ २३,१२
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ २३,१३
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ २३,१४
येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते ॥ २३,१५
अविद्यमाने ग्राहे च मिथ्या वा सम्यग एव वा ।
भवेद् विपर्ययः कस्य भवेत् कस्याविपर्ययः ॥ २३,१६
न चापि विपरीतस्य संभवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः ॥ २३,१७
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः ॥ २३,१८
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्व अजातेषु विपर्ययगतः कुतः ॥ २३,१९
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः ॥ २३,२०
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥ २३,२१
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माऽशुच्यनित्यं च नैव दुःखं च विद्यते ॥ २३,२२
एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ २३,२३
यदि भूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥ २३,२४
यद्यभूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् ।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ २३,२५
२४. आर्यसत्यपरीक्षा नाम चतुर्विंशतितमं प्रकरणं
यदि शून्यमिदं सर्वम् उदयो नास्ति न व्ययः ।
चतुर्णाम् आर्यसत्यानाम् अभावस्ते प्रसज्यते ॥ २४,०१
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णाम् आर्यसत्यानाम् अभावान् नोपपद्यते ॥ २४,०२
तदभावान् न विद्यन्ते चत्वार्यार्यफलानि च ।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ॥ २४,०३
संघो नास्ति न चेत् सन्ति तेऽष्टौ पुरुषपुद्गलाः ।
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ॥ २४,०४
धर्मे चासति संघे च कथं बुद्धो भविष्यति ।
एवं त्रीण्यपि रत्नानि ब्रुवाणः प्रतिबाधसे ॥ २४,०५
शून्यतां फलसद्भावम् अधर्मं धर्ममेवच ।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥ २४,०६
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ २४,०७
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ २४,०८
येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः ।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने ॥ २४,०९
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते ।
परमार्थम् अनागम्य निर्वाणं नाधिगम्यते ॥ २४,१०
विनाशयति दुर्दृष्ता शून्यता मन्दमेधसम् ।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥ २४,११
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः ।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् ॥ २४,१२
शून्यतायाम् अधिलयं यं पुनः कुरुते भवान् ।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥ २४,१३
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ २४,१४
स त्वं दोषानात्मनीयानस्मासु परिपातयन् ।
अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः ॥ २४,१५
स्वभावाद् यदि भावानां सद्भावम् अनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥ २४,१६
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥ २४,१७
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत् सैव मध्यमा ॥ २४,१८
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन् न विद्यते ।
यस्मात् तस्मादशून्यो हि धर्मः कश्चिन् न विद्यते ॥ २४,१९
यद्यशून्यमिदं सर्वम् उदयो नास्ति न व्ययः ।
चतुर्णाम् आर्यसत्यानाम् अभावस्ते प्रसज्यते ॥ २४,२०
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यम् उक्तं दुःखं हि तत् स्वाभाव्ये न विद्यते ॥ २४,२१
स्वभावतो विद्यमानं किं पुनः समुदेष्यते ।
तस्मात् समुदयो नास्ति शून्यतां प्रतिबाधतः ॥ २४,२२
न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान् निरोधं प्रतिबाधसे ॥ २४,२३
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥ २४,२४
यदा दुःखं समुदयो निरोधश्च न विद्यते ।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति ॥ २४,२५
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः ॥ २४,२६
प्रहाणसाक्षात्करणे भावना चैवमेव ते ।
परिज्ञावन् न युज्यन्ते चत्वार्यपि फलानि च ॥ २४,२७
स्वभावेनानधिगतं यत् फलं तत् पुनः कथम् ।
शक्यं समधिगन्तुं स्यात् स्वभावं परिगृह्णतः ॥ २४,२८
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
संघो नास्ति न चेत् सन्ति तेऽष्टौ पुरुषपुद्गलाः ॥ २४,२९
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ।
धर्मे चासति संघे च कथं बुद्धो भविष्यति ॥ २४,३०
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥ २४,३१
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि ।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति ॥ २४,३२
न च धर्मम् अधर्मं वा कश्चिज्जातु करिष्यति ।
किम् अषून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥ २४,३३
विना धर्मम् अधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥ २४,३४
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नम् अशून्यं ते कथं फलम् ॥ २४,३५
सर्वसंव्य्वहारांश्च लौकिकान् प्रतिबाधसे ।
यत् प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥ २४,३६
न कर्तव्यं भवेत् किंचिदनारब्धा भवेत् क्रिया ।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः ॥ २४,३७
अजातम् अनिरुद्धं च कूटश्थं च भविष्यति ।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् ॥ २४,३८
असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च ।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥ २४,३९
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेवच ॥ २४,४०
२५. निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणं
यदि शून्यमिदं सर्वम् उदयो नास्ति न व्ययः ।
प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणमिष्यते ॥ २५,०१
यद्यशून्यमिदं सर्वम् उदयो नास्ति न व्ययः ।
प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणमिष्यते ॥ २५,०२
अप्रहीणम् असंप्राप्तम् अनुच्छिन्नम् अशाश्वतम् ।
अनिरुद्धम् अनुत्पन्नमेतन् निर्वाणम् उच्यते ॥ २५,०३
भावस्तावन् न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ २५,०४
भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः क्वचन कश्चन ॥ २५,०५
भावश्च यदि निर्वाणम् अनुपादाय तत् कथम् ।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते ॥ २५,०६
भावो यदि न निर्वाणम् अभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ २५,०७
यद्यभावश्च निर्वाणम् अनुपादाय तत् कथम् ।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ २५,०८
य आजवंजवीभाव उपादाय प्रतीत्य वा ।
सोऽप्रतीत्यानुपादाय निर्वाणम् उपदिश्यते ॥ २५,०९
प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च ।
तस्मान् न भावो नाभावो निर्वाणमिति युज्यते ॥ २५,१०
भवेदभावो भावश्च निर्वाणम् उभयं यदि ।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते ॥ २५,११
भवेदभावो भावश्च निर्वाणम् उभयं यदि ।
नानुपादाय निर्वाणम् उपादायोभयं हि तत् ॥ २५,१२
भवेदभावो भावश्च निर्वाणम् उभयं कथम् ।
असंस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ ॥ २५,१३
भवेदभावो भावश्च निर्वाण उभयं कथम् ।
तयोरभावो ह्येकत्र प्रकाशतमसोरिव ॥ २५,१४
नैवाभावो नैव भावो निर्वाणमिति याऽञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति ॥ २५,१५
नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तदज्यते ॥ २५,१६
परं निरोधाद् भगवान् भवतीत्येव नाज्यते ।
न भवत्युभयं चेति नोभयं चेति नाज्यते ॥ २५,१७
तिष्ठमानोऽपि भगवान् भवतीत्येव नाज्यते ।
न भवत्युभयं चेति नोभयं चेति नाज्यते ॥ २५,१८
न संसारस्य निर्वाणात् किंचिदस्ति विशेषणम् ।
न निर्वाणस्य संसारात् किंचिदस्ति विशेषणम् ॥ २५,१९
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च ।
न तयोरन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते ॥ २५,२०
परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः ।
निर्वाणम् अपरान्तं च पूर्वान्तं च समाश्रिताः ॥ २५,२१
शून्येषु सर्वधर्मेषु किम् अनन्तं किम् अन्तवत् ।
किम् अनन्तम् अन्तवच्च नानन्तं नान्तवच्च किम् ॥ २५,२२
किं तदेव किम् अन्यत् किं शाश्वतं किम् अशाश्वतम् ।
अशाश्वतं शाश्वतं च किं वा नोभयम् अप्यथ ॥ २५,२३
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्वचित् कस्यचित् कश्चिद् धर्मो बुद्धेन देशितः ॥ २५,२४
२६. द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणं
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥ २६,०१
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते ॥ २६,०२
निषिक्ते नामरूपे तु षडायतनसंभवः ।
षडायतनम् आगम्य संस्पर्शः संप्रवर्तते ॥ २६,०३
चक्षुः प्रतीत्य रूपं च समन्वाहारमेवच ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ २६,०४
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः स तस्मात् स्पर्शाच्च वेदना संप्रवर्तते ॥ २६,०५
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते ।
तृष्यमाण उपादानम् उपादत्ते चतुर्विधम् ॥ २६,०६
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद् धि यद्यनुपादानो मुच्येत न भवेद् भवः ॥ २६,०७
पञ्च स्कन्धाः स च भवो भवाज्जातिः प्रवर्तते ।
जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ २६,०८
दौर्मनस्यम् उपायासा जातेरेतत् प्रवर्तते ।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ २६,०९
संसारमूलं संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान् न विद्वांस्तत्त्वदर्शनात् ॥ २६,१०
अविद्यायां निरुद्धायां संस्काराणाम् असंभवः ।
अविद्याया निरोधस्तु ज्ञानस्यास्यैव भावनात् ॥ २६,११
तस्य तस्य निरोधेन तत् तन् नाभिप्रवर्तते ।
दुःखस्कन्धः केवलोऽयमेवं सम्यग निरुध्यते ॥ २६,१२
२७. दृष्टिपरीक्षा नाम सप्तविंशतितमं प्रकरणं
अभूम् अतीतम् अध्वानं नाभूवमिति दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ २७,०१
दृष्टयो न भविष्यामि किम् अन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २७,०२
अभूम् अतीतम् अध्वानमित्येतन् नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ २७,०३
स एवात्मेति तु भवेदुपादानं विशिष्यते ।
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः ॥ २७,०४
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति ।
स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः ॥ २७,०५
न चोपादानमेवात्मा व्येति तत् समुदेति च ।
कथं हि नामोपादानम् उपादाता भविष्यति ॥ २७,०६
अन्यः पुनरुपादानादात्मा नैवोपपद्यते ।
गृह्येत ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ २७,०७
एवं नान्य उपादानान् न चोपादानमेव सः ।
आत्मा नास्त्यनुपादानो नापि नास्त्येष निश्चयः ॥ २७,०८
नाभूम् अतीतम् अध्वानमित्येतन् नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ २७,०९
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् ।
तथैवच स संतिष्ठेत् तत्र जायेत चामृतः ॥ २७,१०
उच्छेदः कर्मणां नाशः कृतम् अन्येन कर्म च ।
प्रतिसंवेदयेदन्य एवम् आदि प्रसज्यते ॥ २७,११
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ २७,१२
एवं दृष्तिरतीते या नाभूम् अहम् अभूम् अहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते ॥ २७,१३
अध्वन्यनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ २७,१४
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् ।
अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् ॥ २७,१५
देवादन्यो मनुष्यश्चेदशाश्वतम् अतो भवेत् ।
देवादन्यो मनुष्यश्चेत् संततिर्नोपपद्यते ॥ २७,१६
दिव्यो यद्येकदेशः स्यादेक्देशश्च मानुषः ।
अशाश्वतं शाश्वतं च भवेत् तच्च न युज्यते ॥ २७,१७
अशाश्वतं शाश्वतं च प्रसिद्धम् उभयं यदि ।
सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि ॥ २७,१८
कुतश्चिदागतः कश्चित् किंचिद्गच्छेत् पुनः क्वचित् ।
यदि तस्मादनादिस्तु संसारः स्यान् न चास्ति सः ॥ २७,१९
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः ।
शाश्वतोऽशाश्वतश्चापि द्वाभ्याम् आभ्यां तिरस्कृतः ॥ २७,२०
अन्तवान् यदि लोकः स्यात् परलोकः कथं भवेत् ।
अथाप्यनन्तवाल्लोकः परलोकः कथं भवेत् ॥ २७,२१
स्कन्धानामेष संतानो यस्माद् दीपार्चिषामिव ।
तस्मान् नानन्तवत्त्वं च नान्तवत्त्वं च युज्यते ॥ २७,२२
पूर्वे यदि च भज्येरन्नुत्पत्पद्येरन् न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २७,२३
पूर्वे यदि न भज्येरन्नुत्पद्येरन् न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमाल्लोकोऽनन्तो भवेदथ ॥ २७,२४
अन्तवान् एकदेशश्चेदेकदेशस्त्व अनन्तवान् ।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २७,२५
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन् न युज्यते ॥ २७,२६
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७,२७
अन्तवच्चाप्यनन्तं च प्रसिद्धम् उभयं यदि ।
सिद्धे नैवान्तवत् कामं नैवानन्तवदित्यपि ॥ २७,२८
अथ वा सर्वभावानां शून्यत्वाच्छाश्वतादयः ।
क्व कस्य कतमाः कस्मात् संभविष्यन्ति दृष्टयः ॥ २७,२९
सर्वदृष्टिप्रहाणाय यः सद्धर्मम् अदेशयत् ।
अनुकम्पाम् उपादाय तं नमस्यामि गौतमम् ॥ २७,३०
Không có nhận xét nào:
Đăng nhận xét